पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/११)

अनुभूतविषयासप्रमोषः स्मृतिः ॥११॥ 

व्यासभाष्यम् 
किं प्रत्ययस्य चित्तं स्मरति आहोस्विद्विषयस्येति । ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासः (तज्०/तथा०)जातीयकं संस्कारमारभते । स संस्कारः स्वव्यञ्जकाञ्जनः (तदाकारा०/तदनुभवा०)मेव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति ।
तत्र ग्रहणाकारपूर्वा बुद्धिः , ग्राह्यकारपूर्वा स्मृतिः । सा च द्वयी – भावितस्मर्तव्या चाभावितस्मर्तव्या च । स्वप्ने भावितस्मर्तव्या , जाग्रत्समये त्वभावितस्मर्तव्येति ।
सर्वाश्चैताः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनामनुभवात्प्रभवन्ति । सर्वाश्चैता वृत्तयः सुखदुःखमोहात्मिकाः । सुखदुःखमोहाश्च क्लेशेषु व्याख्येयाः । सुखानुशयी रागः , दुखानुशयी द्वेषः , मोहः पुनरविद्येति । एताः सर्वा वृत्तयो निरोद्धव्याः । आसां निरोधे सम्प्रज्ञातो वा समार्धिर्भवत्यसम्प्रज्ञातो वेति ॥११॥

तत्त्ववैशारदी 
अनुभूतविषयासम्प्रमोषः स्मृतिः । प्रमाणादिभिरनुभूते विषये योऽसम्प्रमोषोऽस्तेयं सा स्मृतिः । संस्कारमात्रजस्य हि ज्ञानस्य संस्कारकारणानुभवावभासितो विषय आत्मीयः तदधिकविषयपरिग्रहस्तु सम्प्रमोषः = स्तेयम् । कस्मात् , सादृश्यात् । ‘मुष स्तेये’ (धा पा ९) इत्यस्मात्सम्प्रमोषपदव्युत्पत्तेः ।
एतदुक्तं भवति – सर्वे प्रमाणादयोऽनधिगतमर्थं सामान्यतः प्रकारतो वाऽधिगमयन्ति । स्मृतिः पुनर्न पूर्वानुभवमर्यादामतिक्रामति । तद्विषया तदूनविषया वा , न तु तदधिकविषया । सोऽयं वृत्त्यन्तराद्विशेषः स्मृतेरेति ।
विमृशति – किं प्रत्ययस्य इति । ग्राह्यप्रवणत्वादनुभवस्य स्वानुभवाभावात्तज्जः संस्कारो ग्राह्यमेव स्मारयतीति प्रतिभाति , अनुभवमात्रजनितत्वाच्चानुभवमेवेति । विमृश्योपपत्तित उभयस्मरणमवधारयति – ग्राह्यप्रवणतया ग्राह्योपरक्तः । परमार्थतस्तु ग्राह्यग्रहणे एवोभयं तयोराकारं स्वरूपं निर्भासयति = प्रकाशयति । स्वव्यञ्जकं = कारणम् , अञ्जनम्= आकारो यस्य स तथोक्तः स्वकारणाकार इत्यर्थः । व्यञ्जकमुद्बोधकम् , तेनाञ्जनं फलाभिमुखीकरणं यस्येति वेत्यर्थः ।
ननु यदि कारणविचारेण बुद्धिस्मरणयोः सारूप्यं कस्तर्हि भेद इति ।
अत आह – तत्र ग्रहण इति । ग्रहणमुपादानम् । न च गृहीतस्योपात्तस्योपादानं सम्भवति । तदनेनानधिगतबोधनं बुद्धिरित्युक्तम् ।
ग्रहणाकारो = ग्रहणरूपं पूर्वं = प्रधानं यस्याः सा तथोक्ता । विकल्पितश्चायमभेदेऽपि गुणप्रधानभाव इति । ग्राह्याकारः पूर्वः प्रथमो यस्या सा तथोक्ता । इदमेव च ग्राह्याकारस्य ग्राह्यस्य पूर्वत्वं यद्वृत्त्यन्तरविषयीकृतत्त्वमर्थस्य । तदनेन वृत्त्यन्तरविषयीकृतगोचरा स्मृतिरित्युक्तं भवति । सोऽयमसम्प्रमोष इति ।
नन्वस्ति स्मृतेरपि सम्प्रमोषः । दर्शयति हि पित्रादेरतीतस्य देशकालान्तरानुभूतस्याननुभूतचरदेशकालान्तरसम्बन्धः स्वप्न इति ।
अत आह – सा च द्वयी इति । भावितः कल्पितः स्मर्तव्यो यया सा तथोक्ता । अभावितोऽकल्पितः पारमार्थिक इति यावत् । नेयं स्मृतिरपि तु विपर्ययः तल्लक्षणोपपन्नत्वात् , स्मृत्याभासतया तु स्मृतिरुक्ता । प्रमाणाभासमिव प्रमाणमिति भावः । कस्मात्पुनरन्ते स्मृतेरुपन्यास इत्यत आह – सर्वा स्मृतय इति । अनुभवः प्राप्तिः । प्राप्तिपूर्वा वृत्तिः स्मृतिस्ततः स्मृतीनामुपजन इत्यर्थः ।
ननु ये पुरुषं क्लिश्नन्ति ते निरोद्धव्याः प्रेक्षावता । क्लेशाश्च तथा , न च वृत्तयः । तत्किमर्थमासां निरोध इत्यत आह – सर्वाश्चैता इति । सुगमम् ॥११॥

Author Socials Follow me

This site uses Akismet to reduce spam. Learn how your comment data is processed.