पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१०)

अभावप्रत्यायालम्बना वृत्तिर्निद्रा ॥१०॥ 

व्यासभाष्यम् 
सा च सम्प्रबोधे प्रत्यवमर्शात् प्रत्ययविशेषः । कथं , सुखमहमस्वाप्सं , प्रसन्नं मने मनः प्रज्ञां मे विशारदी करोति , दुःखमहमस्वाप्सं , स्त्यानं मे मनो भ्रमत्यनवस्थितं , गाढं मूढोऽहमस्वाप्सं , गुरूणि मे गात्राणि , क्लान्तं मे चित्तम् , अलसं मुषितमिव तिष्ठतीति । स खल्वयं प्रबुद्धस्य प्रत्यवमर्शो न स्यादसति प्रत्ययानुभवे , तदाश्रिताः स्मृतयश्च तद्विषया न स्युः । तस्मात् प्रत्ययविशेषो निद्रा । सा च समाधावितरप्रत्ययवन्निरोद्धव्येति ॥१०॥ 
तत्त्ववैशारदी 
अभावप्रत्ययालम्बना वृत्तिर्निद्रा । अधिकृतं हि वृत्तिपदमनुवादकम् । प्रमाणविपर्ययविकल्पस्मृतीनां वृत्तित्वं प्रति परीक्षकाणामविप्रतिपत्तेः । अतस्तदनूद्यते विशेषविधानाय । निद्रायास्तु वृत्तित्वे परीक्षकाणामस्ति विप्रतिपत्तिरिति वृत्तित्वं विधेयम् । न च प्रकृतमनुवादकं विधानाय कल्पत इति पुनर्वृत्तिग्रहणम् ।
जाग्रत्स्वप्नवृत्तीनामभावस्तस्य प्रत्ययः = कारणं बुद्धिसत्त्वाच्छादकं तमः तदेवालम्बनं = विषयो यस्या सा तथोक्ता वृत्तिर्निद्रा । बुद्धिसत्त्वे हि त्रिगुणे यदा सत्त्वरजसी अभिभूय समस्तकरणावरकमाविरस्ति तमस्तदा बुद्धेः विषयाकारपरिणामाभावादुद्भूततमोमयीं बुद्धिमवबुध्यमानः पुरुषः सुषुप्तोऽन्तसञ्ज्ञ इत्युच्यते ।
कस्मात् पुनर्निरुद्धकैवल्ययोरिव वृत्त्यभाव एव न निद्रा इत्यत आह – सा च सम्प्रबोधे प्रत्यवमर्शात् = सोपपत्तिकात् स्मरणात्प्रत्ययविशेषः । कथं , यदा हि सत्त्वसचिवं तम आविरस्ति तदेदृशः प्रत्यवमर्शः सुप्तोत्थितस्य भवति – सुखमहमस्वाप्सं , प्रसन्नं मे मनः प्रज्ञां मे विशारदी करोति = स्वच्छी करोतीति । यदा तु रजःसचिवं तम आविरस्ति तदेदृशः प्रत्यवमर्श इत्याह – दुःखमहमस्वाप्सम् , स्त्यानम् = अकर्मण्यं मे मनः , कस्मात् , यतो भ्रमत्यनवस्थितम् । नितान्ताभिभूतरजःसत्त्वे तमःसमुल्लासे स्वापे प्रबुद्धस्य प्रत्यवमर्शमाह – गाढं मूढोऽहमस्वाप्सं गुरूणि मे गात्राणि क्लान्तं मे चित्तमलसं मुषितमिव तिष्ठति इति । साध्यव्यतिरेके हेतुव्यतिरेकमाह – स खल्वयम् इति । प्रबुद्धस्य = प्रबुद्धमात्रस्य । तदाश्रिताश्चेति बोधकाले , प्रत्ययानुभवे = वृत्त्यभावकारणानुभव इत्यर्थः ।
ननु प्रमाणादयो व्युत्थानचित्ताधिकरणा निरुद्ध्यन्तां , समाधिप्रतिपक्षत्वान्निद्रायास्त्वेकाग्रवृत्तितुल्यायाः कथं समाधिप्रतिपक्षतेत्याह – सा च समाधौ इति । एकाग्रतुल्याऽपि तामसत्वेन निद्रा सबीजनिर्बीजसमाधिप्रतिपक्षेति साऽपि निरोद्धव्येत्यर्थः ॥१०॥

Author Socials Follow me

This site uses Akismet to reduce spam. Learn how your comment data is processed.