कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम् व्रीहिभेदस्त्वणुः पुमान् इति यत्तन्न मनोहरम् । तृणोऽस्त्रि(?)……शुपुटके व्रीहिदुढादिकेऽपि (?)…………….. च ॥ इति शब्दरत्ने । कणः कणं च लेशे स्यात् तृणोऽपि तृणमस्त्रियाम् इति शब्दशब्दार्थमञ्जूषायाम् । कपिशं सस्यमञ्जरी इत्यसत् । कणिशः कण्टकः छन्नः पन्नलः सस्यमञ्जरी इति शब्दशब्दार्थमञ्जर्याम् । कणिशं कणिशश्चैव कणीशी कणिशापि च इति शब्दचन्द्रकियाञ्च ॥ अयोऽग्रं मुसलोऽस्त्री स्यात् इत्यसंगतम् । अयोऽग्रः कुन्तलादौ च मुसलादौ शरादिके इति शब्दरत्ने । अयोऽग्रोऽस्त्री शरादौ च मुसलादौ च संमतः इति लोकाक्षिभट्टश्च । रुक्म कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् इत्यसत् । जाम्बूनदशब्दस्यापि पुँल्लिङ्गस्य सत्त्वात् । यदाहाजयः — लोहाजोष्टापदो हेम जाम्बूनदमयानुकाः । क्लीबेऽप्येते च शब्दाः स्युरिति शास्त्रविदो विदुः ॥ इति शब्दमीमांसायाम् । अत एव शब्दशब्दार्थमञ्जूषायां च — हेम जाम्बूनदपदे पुंसि चाहुर्विशेषकाः इति । एवमश्मसारमधुछषकादीनां यथायोगं योजनीयं सूक्ष्मधीभिरित्युपरम्यते । एवमरनिबन्धनस्याशास्त्रीयत्वमिति सिद्धान्तितम् ॥ इत्थं विपक्षविबुधमस्तकन्यस्तसत्पदा । श्रीहर्षेण कृतं सन्तः पठन्त्वमरखण्डनम् ॥ ॥ इत्यमरखण्डनं श्रीहर्षरचितं समाप्तम् ॥
अमरखण्डनम् (९)
कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम् प्रस्थानं गमनं गमः इति यत्तदसत् । गमनं सङ्गतं यानं प्रस्थानं च प्रचालनम् । प्रभालिकादिशब्दाश्च पुंसि चेति विदुर्बुधाः ॥ इति शब्दचिन्तामाणौ । गमनस्तु कलानाथे महेश्वरवसन्तयोः । प्रस्थाने बाहुलेये च पुंसि त्रिषु विकारिषु ॥ इति पर्वतवर्धनोऽपि आह शब्दानुशासने । पांसुर्ना न द्वयो रजः इति न समीचीनम् । शिरोवाचि शिरःशब्दो रजोवाचि रजस्तथा । शिरश्च रज इत्येव सकारान्ते च पुंसि च ॥ इति शब्दशब्दार्थचिन्तामाणौ । रजस्तु पुंस्यकारान्तः पांसौ शम्भौ ॠतावपि इत्यादयः । केतनं ध्वजमस्त्रियाम् इत्याह यत्तदयोग्योम् । केतनं पुंसि लशुने ध्वजे चन्द्रे च न स्त्रियाम् इति शब्दानुशासनात् । स्त्रियां कृषिः पाशुपाल्यं वाणिज्यञ्चेति वृत्तयः इति यत्तन्न विचारक्षमम् । वाणिज्यं चापि वाणिज्या वाणीज्या इति सम्मता इति शब्दचन्द्रिकायाम् । वृत्तौ प्रोक्ता च वाणीज्यं वाणिज्यापि च वाणिजम् इति गोविन्दपादाः ॥
अमरखण्डनम् (८)
कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम् तत्कालस्तु तथात्वं स्यादायातिः काल उत्तरः इत्यत्र आयातिशब्दस्य लिङ्गनिश्चयाभावाद् अनुचितमेत्प्रकरणादिना । तदसिद्धेश्च । यदि आयतिशब्दस्य स्यात्प्रभावोऽपि चायतिः इति नानार्थेषूक्तत्वात् तत्राप्रकरणात् स्त्रीत्वस्य कॣप्तत्वेऽपि स्त्रीत्वमुन्नेयमिति । तर्हि प्रायश इति निबन्धनस्य निष्फलत्वं स्यात् । एतदुपलक्षकमित्युच्यमाने सर्वेषां पर्यायाणां लिङ्गादीनां च उपलक्षका इति स्याताम् । एवं च स्वरव्ययम् इत्युक्त्यैव सवेषामुपलक्षकविधया सिद्धिवशात् ग्रन्थमात्रोच्छेदः स्यादित्यलं धावनेन । एवं च तत्निबन्धनमेव तत्कण्ठबन्धनं जातमिति सूचितम् । निगलस्तु गलोद्देशे इति न सम्यक् । निगालश्च निगाला च निगालं च निगालकम् । निगाली च गलोद्देशे गलीये वाच्यवच्च तत् ॥ इति शब्दशब्दार्थमञ्जूषायाम् । तत् उक्तशब्दजातमित्यर्थः । फलकोऽस्त्री फलं चर्म संग्राह्यो मुष्टरस्य यः इति यत्तदसत् । फलकस्त्रीषु विष्ण्वादौ फलकश्चर्मणि स्मृतः इति मञ्जूषायाम् । शिलाभेदे चर्मणि च फलको सदलेषु (?) इति गोवर्धनोऽपि आह मणौ । दारुपात्रविशेषे च फालेऽश्मनि च चर्मणि । फलकः पुंसि वरदे फलकस्त्रिषु सम्मतः ॥ इति शब्दरत्ने ॥