अमरखण्डनम् (६)

कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम्   नडस्तु धमनः पोटगलोथो कोशमस्त्रियाम् इत्यसत् । नलोऽम्बुजे नलं न स्त्री धमनाख्यतृणेऽन्तिमः इति हेमचन्द्रः ॥ स्याद्वीरणं वीरतरं ………………………… तदसत् । वीराङ्को वीरवृक्षः स्यात् वीरणश्चापि वीरकः इति पर्यायरत्नमालायाम् ॥ गिरिका बालमूषिका इति यदुक्तं तन्न सम्यक् । बालमूषीति तस्य पुंस्त्वेन प्रयोगात् । यथा शब्दशब्दार्थमञ्जूषायाम् — गिरिका गैरिका चैव वसुमत्नी महेश्वरी । स्त्रीपुंसयोश्च बालीयमूषिका मूषकश्च सः ॥ इति । उक्तञ्च शब्दरत्ने — गिरिका मूषिका वत्से न क्लिबे गिरिका शिवा  । इति ॥ चटकः कलविङ्कः स्यात् तस्य स्त्री चटका तयोः । पुमपत्ये चाटकैरस्त्वपत्ये ……………चटकैव हि ॥ इति यत्तदसत् । एवमुक्तेः प्रयोजनाभावात् । एतत्प्रकरणेऽप्यनुक्तत्वादुक्तस्यापि निष्फलत्वात् । यद्येवमन्येषामूहितुमिति गिरिका बालमूषिका इत्याद्युक्तेः निष्फलतादिदोषबाहुल्यं स्यात् । तत्र बालमूषिकेऽप्यनुक्तत्वादित्यादिकं विचाररमणीयं विवेकिभिः ॥ कान्तार्थिनी तु या याति संकेतं साभिसारिका इति न समीचिनम् । कान्ताथ संकेतगता कान्तेनापि समागता । स्यात्साभिसारिका नैव न क्लिबे दौत्यजन्तुषु ॥ इति शब्दरत्ने । अत एव महेश्वरदीक्षितोपि बालभागवतेऽप्याह — कान्तं गता कान्तगता रहस्यात्साभिसारिका । इति ।

अमरखण्डनम् (५)

कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम्   हर्म्यादिर्धनिनां वासः इति यत्तदयोग्यम् , लिङ्गनिश्चयाभावात् ।   यदि पूर्वोत्तरपर्यालोचनया पुंलिङ्ग इति प्रवदति तर्हि तदप्यायासकरमेव ।  हर्मि हर्मिश्च हर्म्यश्च हर्म्यं हर्म्यापि राड्गृहे इति शब्दरत्नपाठात्  । अत एवाधुनिका अप्येवमाहुः । योज्यम् (?) । निर्झरो झरः इत्यलिङ्गविशेषनिरूपणाभावाद्बाधकमेव । झारि झरा झरी झारिः झारा झाराश्च निर्झरः इति शब्दशब्दार्थमञ्जूषोक्तेः स्त्रियः सुमनसः पुष्पम् इत्यत्र न सुमनसः इति बहुवचनं युक्तम् ।                   सुमनः सुमनाः स्त्रियाम् इति चक्रवर्त्युक्तेः । कञ्च — सुमनः सुमनाश्चैव स्यात्क्रमात् पुंसि च स्त्रियाम् इति केशवभट्टाचार्याः । अत एव शब्दरूपमीमांसायां वर्धनाचार्योऽप्याहः– सुमनं सुमनः सुमनः बहुषु  इति । पुष्पोऽस्त्री कुसुमम् इति वैजयन्त्याम् । न पुष्प………तिनम् । किञ्च सुदर्शनाचार्योऽप्याह — पुष्पोऽन्त्री कुसुमे नीले घृततालादिकेषु च इति ।

अमरखण्डनम् (४)

कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम् किञ्च — स्त्रियां नौस्तरणिस्तरिः इत्युक्तेस्तरणिशब्दस्य स्त्रीत्वे क्तुसति ? सूर्यपर्यायतरणिशब्दस्यापि स्त्रीत्वमेव स्यात् । यद्वा वेना(?)त्रैव पुंस्त्वं वा स्यात् । अत्रोभयत्रापि लिङ्गैकत्वेन येन केनापि रचितं नः श्रुतं च । अतस्त्वेवमेतस्मिन् ग्रन्थे कल्पितुं न  युक्तम् । तथानुशासनाभावादशास्त्रीयत्वेन मायतैवेत्यास्तां प्रसक्तानुप्रसक्त्या । प्रकृतमनुसरामः – तमः इति पुँल्लिङ्ग इति महेन्द्राचार्याः । उक्तं च शब्दशब्दार्थमञ्जूषायाम् —  तमः पुंसि गुणे राहौ धूलिध्वान्तार्तवारिषु । तमा तमी तमाश्चापि ध्वान्तादिषु समीहता ॥ इति । अत एव तम इत्यादिकं पुंस्येव सम्यगिति मन्यतेऽस्मिन्नर्थे सुदर्शनमिश्रैः इति शाबरभाष्यव्याख्याने गदाधरोऽप्याहेति तत्सिद्धम् । यत्तु  —        पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम्  इति तन्न । पीडा पीडश्च सम्मतः इति पूर्वाचार्याः । चूडा गूडा नडा पीडा स्त्रियां पुंसि च रूढितः  इति वज्रखड्गभट्टाचार्योऽप्याह शब्दरत्ने । अत एवास्मत्तातचरणैः शब्दचिन्तामणौ पुंसि पीडादिनाङ्कः पीडः इति कथितम् । तस्मात्तथैव तदिति मन्तव्यम् । महाक्षोणी भूमिः इति यत् तन्न । अत्र इकारान्तईकारान्तयोः सत्त्वात् । यदाहुः …….को लाक्षिभट्टाचार्याश्च चन्द्रिकायाम् — कही मही सही क्षोणी मतिभूमिमहीमुखाः । ईकारान्ता इकारान्ताश्चेति सर्वज्ञशासनम् ॥  इति । अत एव प्राञ्चः शब्दानुशासनेऽप्याहुः — ईकारान्ता इकारान्ता इकारान्तास्तथैव हि इति । एवं तत्र योज्यम् । अत एवान्येऽप्याचार्या आहुः —                                 पुरः पुरा पुरं पुरी महिर्मही  इत्यादिना ।